|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.64. अध्यायः 064
Mahabharata - Ashvamedhika Parva - Chapter Topics
युधिष्ठिरेण हिमवद्गिरिमेत्य सेनानिवेशनम्॥ 1 ॥ तत्र ब्राह्मणचोदनया तैः सहोपवासादिव्रताचरणपूर्वकं निशायापनम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः।
रथघोषेण महता पूरयन्तो वसुन्धराम्॥ 14-64-1(94284)
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः।
स्वेन सैन्येन संवीता यथाऽऽदित्याः स्वरश्मिभिः॥ 14-64-2(94285)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट्॥ 14-64-3(94286)
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः।
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः॥ 14-64-4(94287)
तथैव सैनिका राजन्राजानमनुयान्ति ये।
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत॥ 14-64-5(94288)
सरांसि सरितश्चैव वनान्युपवनानि च।
अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत॥ 14-64-6(94289)
स्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम्।
चक्रे निवेशनं राजा पाण्डवः सहसैनिकैः।
शिवे देशे समे चैव तदा भरतसत्तम॥ 14-64-7(94290)
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान्।
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम्॥ 14-64-8(94291)
आग्निवेश्यं च राजानो ब्राह्मणाः सपुरोधसः।
कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन्॥ 14-64-9(94292)
कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि।
षट्पदं नवसङ्ख्यानं निवेशं चक्रिरे जनाः॥ 14-64-10(94293)
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि।
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत्॥ 14-64-11(94294)
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे।
यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत्तथा॥ 14-64-12(94295)
न नः कालात्ययो वै स्यादिहैव परिलम्बताम्।
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम्॥ 14-64-13(94296)
श्रुत्वैतद्व********* ब्राह्मणाः सपुरोधसः।
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः॥ 14-64-14(94297)
अद्यैव नक्षत्रिमहश्च पुण्यं
यतामहे श्रेष्ठतमक्रियासु।
तपोभिरद्येह वसाम राज-
न्नुपोष्यतां चापि भवद्भिरद्य॥ 14-64-15(94298)
श्रुत्वा तु तेषां द्विजसत्तमानां
कृतोपवासा रजनीं नरेन्द्राः। 14-64-16(94299)
ऊषुः प्रतीताः कुशसंस्तरेषु
यथाऽध्वरे प्रज्वलिता हुताशाः॥ 14-64-17(94300)
ततो निशा सा व्यगमन्महात्मनां
संशृण्वतां विप्रसमीरिता गिरः।
ततः प्रभाते विमले द्विजर्षभा
वचोऽब्रुवन्धर्मसुतं नराधिपम्॥ ॥ 14-64-18(94301)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःषष्टितमोऽध्यायः॥ 64 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-64-25 ध्रुवे नक्षत्रे रोहिण्यामुत्तरात्रये च। अहनि वारे ध्रुवे रविवारे।क उत्तरार्केऽमृतसिद्धयोगे इत्यर्थः॥ 7-64-31 मूले वंशस्याद्ये। कुन्तीधृतराष्ट्रसमीपे इत्यर्थः॥ 7-64-63 त्रिषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|